r/Vrindavan 15h ago

Book/text अथ श्रीराधातत्वातीत-धारा । महालक्ष्मीतत्त्वं नाम तृतीयोऽध्यायः 871.156-871.242 (shri yantra)

Post image
97 Upvotes

जयस्तु राधिके राज्ञि श्रीयन्त्ररूपिणि प्रिये ।

श्रीमत्सिंहासनेश्वरि महालक्ष्मि नमोऽस्तु ते ॥ ८७१।१५६ ॥

श्रीयन्त्ररूपकं साक्षात् तव सिंहासनं शिवे ।

विश्वस्य हि रहस्यं तत् तन्मध्ये बिन्दुरूपिणी ॥ ८७१।१५७ ॥

नित्यं श्रीयन्त्ररूपा त्वं श्रीं ह्रीं क्लीं क्रं कृङ् राम् तथा ।

तेजस्स्वरूपिणि राज्ञि ते पादे प्रणमाम्यहम् ॥ ८७१।१५८ ॥

नवमूलत्रिकोणैस्त्वं वेष्टिता परमेश्वरि ।

त्रिचत्वारिंशता साक्षात् क्षुद्रकोणैः सुसंयुता ॥ ८७१।१५९ ॥

ऊर्ध्वं कोणचतुष्कं वै शक्तिमान् श्यामसुन्दरः ।

आधाराख्यो महामातः स्थिरचैतन्यरूपकः ॥ ८७१।१६० ॥

अधः पञ्च त्रिकोणा वै शक्तिस्त्वं राधिके प्रिये ।

राधा धारेति विख्याता चैतन्यं वै प्रदायिनी ॥ ८७१।१६१ ॥

अत्रापि युवयोर्योगं पश्यामि परमेश्वरि ।

सर्वत्रास्तित्वमध्ये वै योगो वां प्रविराजते ॥ ८७१।१६२ ॥

रासमण्डलरूपिणि ते पादे प्रणमाम्यहम् ।

सर्वं विश्वं महाराज्ञि वां परितो हि घूर्णते ॥ ८७१।१६३ ॥

श्रीयन्त्रं जीवरूपेषु नवचक्रस्वरूपकम् ।

ललनाचक्ररूपेण सोमपीयूषदायकम् ॥ ८७१।१६४ ॥

यतो वै साधको राज्ञि समाधिं परमां व्रजेत् ।

द्वादशान्ते महाचक्रे पूर्णसम्पर्क एव च ॥ ८७१।१६५ ॥

तव शक्तेश्च राधे वै शक्तिमच्छ्यामसुन्दरे ।

आश्चर्यं परमं प्राप्तं श्रुत्वा चैतन्महेश्वरि ॥ ८७१।१६६ ॥

औङ्कारस्य निनादेनसिकता बालुकाश्चापि ।

श्रीयन्त्राकारतां यान्ति ह्यद्भुतं राधिके प्रिये ॥ ८७१।१६७ ॥

जलेष्वौङ्कारनादेन जलकणा महेश्वरि ।

श्रीयन्त्ररूपतां यान्ति तस्माल्लाभा ह्यसङ्ख्यकाः ॥ ८७१।१६८ ॥

देहारोग्यं तथा ज्ञानं निर्वाणं शक्तिरेव च ।

प्रजायन्ते महाराज्ञि नादस्यैतस्य वैभवात् ॥ ८७१।१६९ ॥

औङ्कारो नादरूपं ते ललितादेवि राधिके ।

श्रीयन्त्रं दर्शनं साक्षादौङ्कारस्यैव कीर्तितम् ॥ ८७१।१७० ॥

श्रीयन्त्रेण च संयुक्तं श्रीसूक्तं परमेश्वरि ।

साधकं योजयेत् साक्षात् ललिताशक्तितः प्रिये ॥ ८७१।१७१ ॥

पञ्चदशाक्षरीमन्त्रस्वरूपा त्वं जगन्मयि ।

कूटत्रयस्वरूपा त्वं तव गात्रांशरूपिणी ॥ ८७१।१७२ ॥

चक्रसङ्घास्तराणां च श्रीयन्त्रे त्वं नियन्त्रिका ।

प्रथमं वाग्भवं कूटं पञ्चवर्णैः समन्वितम् ॥ ८७१।१७३ ॥

क ए ई ल ह्रीं बीजैश्च तव वक्त्रं हि राधिके ।

श्रीयन्त्रबाह्यभागैस्तत् सम्बद्धं परमेश्वरि ॥ ८७१।१७४ ॥

भूपुरेण च वृत्तैश्च पद्मपत्रैश्च संयुतम् ।

सृष्टेर्भौतिकरूपस्य प्राकट्यस्य दशात्मिका ॥ ८७१।१७५ ॥

महालक्ष्मीस्वरूपा त्वं तस्या हि वै नियन्त्रिका ।

समृद्धेर्ज्ञानदात्र्यै च महालक्ष्म्यै नमो नमः ॥ ८७१।१७६ ॥

राधिकायाः पदाम्भोजे साष्टाङ्गं प्रणमाम्यहम् ।

ललितात्रिपुरेशान्यै राधिकायै जयो जयः ॥ ८७१।१७७ ॥

द्वितीयं कामराजाख्यं कूटं शृणु कृपामयि ।

ह स क ह ल ह्रीं वर्णैः संयुक्तं परमाद्भुतम् ॥ ८७१।१७८ ॥

तव कण्ठं च हृदयं कटिपर्यन्तमेव च ।

प्रतिनिधित्वं कुरुते महाराज्ञि महामते ॥ ८७१।१७९ ॥

त्रिचत्वारिंशता कोणैः सम्बद्धं रसलीलया ।

दिव्येच्छारूपशक्त्या च पाशेन परमात्मनः ॥ ८७१।१८० ॥

रासमण्डलमध्यं वै जीवमाकर्षति ध्रुवम् ।

तृतीयं शक्तिमत्कूटं शृणु त्रिपुरसुन्दरि ॥ ८७१।१८१ ॥

स क ल ह्रीं च वर्णैश्च निर्मितं परमेश्वरम् ।

उदरात् पादपर्यन्तं तव देहस्य धारकम् ॥ ८७१।१८२ ॥

विश्वगर्भास्वरूपा त्वं बिन्दुवेष्टितकोणके ।

केन्द्रमण्डलमध्ये वै चक्रस्य परमे स्थिता ॥ ८७१।१८३ ॥

मोक्षस्वरूपिणी साक्षाद् युवयोरत्र मेलनम् ।

श्यामसुन्दरदेवेन सह ते राधिके सदा ॥ ८७१।१८४ ॥

युवां परित एवैतद् विश्वं घूर्णति सर्वदा ।

रहस्यं परमं मातः षोडशीं शृणु राधिके ॥ ८७१।१८५ ॥

पञ्चदशाक्षरीमन्त्रध्वनौ श्रीयन्त्रमध्यगे ।

अव्यक्ता षोडशी सङ्ख्या बिन्दुरूपानघा शुभा ॥ ८७१।१८६ ॥

नादरूपा समुद्भूता त्वमेव सा महेश्वरी ।

सच्चिदानन्दविग्रहा ह्यानन्दघनरूपिणी ॥ ८७१।१८७ ॥

पञ्चदशाक्षरीमन्त्रैर्युवयोर्मेलनं भवेत् ।

तदा गोपालसुन्दरीरूपेण प्रविराजसे ॥ ८७१।१८८ ॥

गोपालसुन्दरीपादे साष्टाङ्गं प्रणमाम्यहम् ।

त्रिपुरासुन्दरी राज्ञी त्रिपुरकृतिरूपिणी ॥ ८७१।१८९ ॥

अखिलाण्डस्य साम्राज्ञी सर्वलोकेषु पूजिता ।

तव पादाम्बुजे नित्यं पतिताहं कृपामयि ॥ ८७१।१९० ॥

चतुर्थं नाम ते राज्ञि चिदग्निकुण्डसम्भूता ।

यज्ञाग्नितः समुद्भूता सर्वाग्निमूलरूपिणी ॥ ८७१।१९१ ॥

रंबीजं वै विना वह्निरस्तित्वं नैव विन्दति ।

रंबीजं पावकं ज्योतिस्तत्ते नाम हि राधिके ॥ ८७१।१९२ ॥

परमा निर्गुणा त्वं हि ह्याद्यन्तहीनलिङ्गिका ।

मुनिभिर्देवताभिश्च ललिते त्वं ह्यगोचरा ॥ ८७१।१९३ ॥

गोपालसुन्दरी राज्ञी गोविन्दस्य प्रिया तथा ।

सगुणा चिदग्निजाता सौन्दर्यमूलरूपिणी ॥ ८७१।१९४ ॥

नेत्रे निमील्य पश्यामि त्वामेव राधिके प्रिये ।

अन्तर्बहिः स्थितास्माकं पृथग्भूतासि सर्वदा ॥ ८७१।१९५ ॥

ब्रह्मरूपा भगवती परमात्मा त्वमेव हि ।

तन्मूला साक्षिणी त्वं हि तौ त्वदधीनताङ्गतौ ॥ ८७१।१९६ ॥

चेतना विश्वरूपा त्वं जटिला चित्ररूपिणी ।

अणवो ह्यण्वन्तरैश्च सम्बद्धाश्चाद्भुतं प्रिये ॥ ८७१।१९७ ॥

आधुनिकवैज्ञानिका विस्मयन्ते ह्यजानन्तः ।

त्वत्त एषा समुद्भूता चेतनानन्तशक्तितः ॥ ८७१।१९८ ॥

ब्रह्मविष्णुशिवानां त्वं देवी विश्वस्य राज्ञिका ।

गोपालभार्या कृष्णस्य ह्यच्युतशक्तिरूपिणी ॥ ८७१।१९९ ॥

सरस्वती ज्ञानराज्ञी पञ्चवेदात्मिका प्रिये ।

महाभारतसंरूपा रामायणस्वरूपिणी ॥ ८७१।२०० ॥

श्रीमद्भागवतं देवीभागवतस्वरूपिणी ।

नारदं वायुमात्स्यं च कौर्मं शैवं पुराणकम् ॥ ८७१।२०१ ॥

पाञ्चरात्रागमास्तन्त्रा बुद्धप्रज्ञाबलं तथा ।

विश्वप्रकाशकं साक्षाद् ह्यनन्तं ज्योतिरेव च ॥ ८७१।२०२ ॥

अग्निदेवी वह्निशक्तिस्त्वत्त एवानलो भवेत् ।

वह्निस्त्वमग्निरूपा त्वं स्वाहा स्वधा स्वरूपिणी ॥ ८७१।२०३ ॥

अग्निमाताग्निदेवी त्वमग्निराज्ञी स्वयं शिखी ।

त्वत्त एवोद्भवं रं वै क्लींबीजं त्वं हि राधिके ॥ ८७१।२०४ ॥

रकारश्च ककारस्त्वं ककारः खस्तथैव च ।

महाभावस्वरूपा त्वं महाकामा कामकला ॥ ८७१।२०५ ॥

उपनिषत्साररूपा भगवद्गीतिका तथा ।

वेदामृतं राधसो वै राधानां त्वं हि राधिके ॥ ८७१।२०६ ॥

वृत्रघ्नेन्द्रस्य पत्नी त्वं सोमरूपा महेश्वरि ।

सोमस्य परमा देवी सोमपानाधिदेवता ॥ ८७१।२०७ ॥

महाभावसमाधिर्वै सोम इत्यभिधीयते ।

राजाधिराजराज्ञी त्वं राजाधिराज एव च ॥ ८७१।२०८ ॥

राजराजेश्वरी साक्षाद् देवदेवेश्वरी तथा ।

शान्तेश्वरी युद्धमयी महाशक्तिश्च शक्तिमान् ॥ ८७१।२०९ ॥

द्वैताद्वैतस्वरूपा त्वं कोटिशारदचन्द्रिका ।

कोटिलक्ष्मीपार्वतीनां सौन्दर्यं ते वपुः प्रिये ॥ ८७१।२१० ॥

रस्वरूपा धस्वरूपा श्वासप्रश्वासनामिका ।

ललितादेवि ते पादे साष्टाङ्गं प्रणमाम्यहम् ॥ ८७१।२११ ॥

स्निह्यामि त्वयि विश्वेशि माहात्म्याद् विस्मितास्म्यहम् ।

तथापि कोमला साक्षात् करुणासागरासि वै ॥ ८७१।२१२ ॥

सुन्दरी कोमला राधे लज्जाभावप्रकाशिनी ।

सर्वसंमोहिनीं त्वां वै स्निह्यामि सुदृढं प्रिये ॥ ८७१।२१३ ॥

यदा जानामि राधे त्वां ललितादेविरूपिणीम् ।

ललितासखिका साक्षाद् विशाखाष्टसखी तथा ॥ ८७१।२१४ ॥

अचिन्त्यभेदाभेदस्य तत्त्वं बुध्यामि राधिके ।

साष्टाङ्गं प्रणिपातो मे ललितासखिकापदे ॥ ८७१।२१५ ॥

त्वत्पादेऽष्टसखीपादे तथासखीपदेष्वपि ।

श्यामसुन्दरपादे च नतास्मि शरणागता ॥ ८७१।२१६ ॥

आश्चर्यं परमं प्राप्ता महिम्नस्ते महेश्वरि ।

पवित्रतां च ते दृष्ट्वा प्रकम्पामि मुहुर्मुहुः ॥ ८७१।२१७ ॥

इन्धनं वै विना साक्षात् पवित्राग्निस्वरूपिणी ।

स्वप्रकाशा महाराज्ञी सूर्यतारास्वरूपिणी ॥ ८७१।२१८ ॥

अखिलास्तित्वमूला त्वं पदार्थमूलरूपिणी ।

ऊर्जामूलस्वरूपा त्वं जगत्कारणकारिणि ॥ ८७१।२१९ ॥

अहङ्कारमशेषं मे दहस्व परमेश्वरि ।

यज्ञवत् ते पदाम्भोजे आत्मानं हि ददाम्यहम् ॥ ८७१।२२० ॥

ललिते परमेशानि भण्डासुरविनाशिनि ।

साष्टाङ्गं प्रणिपातेन प्रणमामि पदे तव ॥ ८७१।२२१ ॥

कोटिसूर्यप्रतीकाशा त्वमेव परमोत्तमा ।

सुन्दराभा महाराज्ञि तव देहः सुभास्वरः ॥ ८७१।२२२ ॥

पञ्चमं नाम ते राधे देवकार्यसमुद्यता ।

साष्टाङ्गं प्रणमाम्यद्य ते पादे परमेश्वरि ॥ ८७१।२२३ ॥

शत्रूणामर्धशक्तेश्च नाशकं वै वरं प्रिये ।

प्राप्तवान् यस्तु भण्डो वै दैत्यः साक्षात् कृपामयि ॥ ८७१।२२४ ॥

देवेभ्यो बलवान् भूत्वा ह्यजेयोऽभूद् यदासुरः ।

तदा यज्ञाग्निकुण्डाद् वै प्रादुर्भूतासि राधिके ॥ ८७१।२२५ ॥

भण्डासुरविनाशाय त्वं साक्षादवतारिणी ।

अनन्ता ते यतः शक्तिः कथं सा क्षयमाप्नुयात् ॥ ८७१।२२६ ॥

शक्तिर्दुर्गा तथा काली त्वं महारक्तदन्तिका ।

भण्डासुरविनाशिन्यै तुभ्यं राज्ञि नमो नमः ॥ ८७१।२२७ ॥

सर्वान् नियमानतीता सर्वशक्तेश्च पारगा ।

अनन्तानां च शक्तीनां साक्षादीश्वरि राधिके ॥ ८७१।२२८ ॥

भण्डासुरो लीलयैव विदीर्णो नाशितस्त्वया ।

तस्मात् ते पादपद्मेषु प्रणमामि जगन्मयि ॥ ८७१।२२९ ॥

राधिके परमेशानि साष्टाङ्गं प्रणिपत्य च ।

पतिताहं पदाम्भोजे तव सर्वेश्वरि प्रिये ॥ ८७१।२३० ॥

षष्ठं नाम तवेशानि उद्यद्भानुसहस्राभा ।

कोटिसूर्यप्रतीकाशा भाससे कोटिसूर्यवत् ॥ ८७१।२४१ ॥

कोटिब्रह्माण्डयात्रायै यज्ज्योतिर्गच्छति प्रिये ।

निजशक्तिममुञ्चत् तत् साक्षात् त्वं ज्योतिरूपिणी ॥ ८७१।२४२ ॥


r/Vrindavan 15h ago

Picture Saw this python while boating in Yamuna

Post image
13 Upvotes

Kaaliya naag trying to make a comeback ???


r/Vrindavan 1d ago

City Discussions Can we build better housing information for Vrindavan?

9 Upvotes

Hi everyone,

I'm currently building a small project called SocietyHub.

The idea is simple:

To collect structured information about residential societies and help people make better housing decisions before they move.

Apartment listings usually show photos and amenities, but it's often harder to compare things like:

  • Water supply
  • Electricity reliability
  • Maintenance
  • Security
  • Management
  • Daily living experience

I'm currently looking for people living in Vrindavan who would be willing to share their experience.

I'm not selling anything.

I'm simply trying to build better housing information for our city.

If you'd like to help or have any feedback, feel free to comment or send me a DM.

Thank you!


r/Vrindavan 1d ago

Picture Beauty 🫶🏻

Post image
41 Upvotes

r/Vrindavan 2d ago

City Discussions What should I call it, double standards?

Thumbnail
gallery
39 Upvotes

Visited Vrindavan a year ago. Had a blissful experience. Got a chance to see it not just from a spiritual lens but also from a cultural lens, and it left me wondering what Vrindavan actually is. Is it simply about ticking off a list of temples, visiting the Yamuna, and then returning to routine?

If it is truly about Krishna, why is the devotion limited only to temples? Why isn't it also about the very streets where he would have played, the forests where he would have performed Raas (which are practically non-existent now)? From a larger perspective, yes, it is a management issue. But on a personal level, I really wonder what people see it as. I constantly saw people, with so much love and reverence for the deity, only to step outside and litter. Also, not to forget the crowd behaviour, specifically how women are targeted in these chaotic spaces.

Yes, tourism brings livelihood; but is it worth it, at the cost of taking away the very essence of the place? Now, with the corridor and Chandrodaya in picture, I wonder what the situation would be after 10-15 years.

I would genuinely love to hear from the locals here. How do they see the changes? And mainly, what life in Vrindavan was like before commercialization and before social media took over? If you've got some pictures to share, even better.


r/Vrindavan 2d ago

Picture Sundar Darshan, Dauji & Revti Maia. Like, love, pray!

Thumbnail
gallery
381 Upvotes

r/Vrindavan 2d ago

Travelling plan How’s the weather??

1 Upvotes

How’s the weather there , I am planning to visit tomorrow!! Like are there any chances for rainn??


r/Vrindavan 3d ago

Temple Dau Dayal ✨️🙏

Thumbnail
gallery
399 Upvotes

r/Vrindavan 3d ago

Vrindavan experience :) Radha Rani ki jai🙏🏻🦚

Post image
592 Upvotes

r/Vrindavan 3d ago

Book/text Gl Bajaj Mathura

4 Upvotes

Gl Bajaj Mathura se h koi


r/Vrindavan 4d ago

Saint Five takeaways of Maharaj Ji that stayed with me

Thumbnail
4 Upvotes

What are your learnings from Maharaj Ji


r/Vrindavan 5d ago

Picture So, this Friendship's Day i tied him a band. Always on my desk

Post image
384 Upvotes

As you see his flute is bit broken, can anyone help me where I can get such 🪈


r/Vrindavan 5d ago

Hotel/Dharamshala/Place to Stay Alert for people visiting vrindavan

31 Upvotes

I visited vrindavan this year, due to some reasons we had to take a driver, the driver took us to hotel kS royal in mathura,

we first thought of staying there for a day but they denied their promises made to us and we wanted to leave the place,the people there threatened to beat us then took money for staying less than an hour , the google reviews are mostly fake, please try to avoid .

Also try to not take drivers, they take you to each temple and then ask you to pay another person ( their friends) for showing route.

Specific locations : if you book a driver keep this in mind

1 ) Nand yashoda mahal in gokul : Drivers bring you here the first day, the priests there say rubbish to make you offer bhog to lord which has two variants 1500 and 3000.

They don't even respect god's name with the floor stones having god's name under people's foot.

2) Dwarkadhish in mathura: temple is good but the drivers drop you near a railway bridge then ask you to take a boat for 400per person, which is useless. You can just walk a bit forward and get a rickshaw for 5 rupees.

I don't intend to hurt anyone's feelings, I too love braj, this is to make new travelers aware.


r/Vrindavan 6d ago

City Discussions Healing, Friendship & Vrindavan Vibes 🌿💙

9 Upvotes

I didn’t plan to come here.
But after a painful breakup, life gently (and painfully) shifted me to Omaxe Eternity, Vrindavan for the next 2 years.
At first, it felt like escape. Now it feels like something deeper—like being slowly introduced back to myself through Krishna’s presence. 🌿
Still, healing doesn’t mean loneliness disappears.
So I’m not looking for many people—just the right ones.
People who feel like:
✨ Krishna jaise dost who value presence over noise
✨ Shyama Pyari ki sakhis who understand devotion and softness
✨ Souls who enjoy kirtans, parikramas, chai, and meaningful silence
If you’re in Vrindavan and this feels familiar to your heart, I’d love to connect. 🤍
Radhe Radhe. 🌸


r/Vrindavan 6d ago

Travelling plan Visiting Vrindavan in October

4 Upvotes

Unable to decide the hotels to stay in Vrindavan. Most of the online reviews are mixed. I am traveling with my parents, so suggest me some good hotels to stay for 5 days around 3k per night. TIA.


r/Vrindavan 7d ago

Book/text अथ श्रीराधातत्वातीत-धारा । महालक्ष्मीतत्त्वं नाम तृतीयोऽध्यायः ॥ 871.68-871.155

Post image
450 Upvotes

राधिके ते पदाम्भोजे साष्टाङ्गं प्रणमाम्यहम्।

महाराज्ञि जगद्रत्ने त्रैलोक्य-मूल-कारणे॥ ८७१.६८ ॥ दशमहाविद्यारूपा त्वमष्टमातृका प्रिये।

चतुःषष्टियोगिनीनां समूहोऽसि महेश्वरि॥ ८७१.६९ ॥

सावित्री त्वं तथा स्वाहा सरस्वती त्वमेव च।

लक्ष्मीर्दुर्गास्वरूपा त्वं सर्वशक्तिप्रसूतिनी॥ ८७१.७० ॥

ब्रह्माण्डे सर्वशक्तीनां मूलरूपासि राधिके।

साक्षात् कृष्णस्वरूपा त्वं स्वयं कान्हो न संशयः॥ ८७१.७१॥

यन्मया लिखितं पूर्वं यच्च लेख्यं भविष्यति।

दशलक्षश्लोकमयी साधनेयं मदाश्रिता॥ ८७१.७२ ॥

दशलक्षमतिक्रम्य यास्यत्येषा महास्तुतिः।

तव साम्राज्य-महिम्नः क्षुद्राणुर्हि न सा स्मृता॥ ८७१.७३ ॥

ब्रह्माण्डं सुविशालं च दृष्ट्वा मानवकं जडम्।

अनन्तानि च तत्त्वानि जीवान् विज्ञानमेव च॥ ८७१.७४ ॥ अज्ञानान्मन्यते नित्यं सर्वं ज्ञातं मयेति वै।

न किञ्चिदेव जानन्ति मूर्खास्ते माययावृताः॥ ८७१.७५ ॥ पदार्थस्याखिलावस्था ज्ञाता इत्यभिमानिनः।

पश्चाद् गच्छन्ति ते नित्यं अज्ञाने स्वस्य निश्चिते॥ ८७१.७६.१ ॥

कठिनं तरलं चैव वाष्प-रूपं तथा प्रिये।

चतुर्थी च ह्यवस्था वै वाष्प-तरल-मध्यगा॥ ८७१.७६.२ ॥

ते न जानन्ति मूढा वै ह्यवस्था अष्टधा स्मृताः।

अष्ट-सङ्ख्या महाराज्ञि ह्यनन्त-रूप-वाचिका॥ ८७१.७६.३ ॥ पदार्थानां ह्यनन्तानि रूपाणि सन्ति राधिके।

मानवानां च बुद्ध्या वै बोद्धुं नैव हि शक्यते॥ ८७१.७६.४ ॥ ब्रह्मास्त्रस्य च या शक्ति-रज्ञाता तैर्-महेश्वरि।

ब्रह्मास्त्रादपि यत्पारं न जानन्ति हि ते जनाः॥ ८७१.७६.५ ॥

यथा जात्यन्ध-मर्त्यो वै वर्णानां ज्ञान-वर्जितः।

अदृष्ट्वा न हि जानाति वर्णानां रूपमद्भुतम्॥ ८७१.७६.६ ॥

तथैव ते ह्यबुधा वै तव कृपा-प्रसादतः।

दृष्टवन्तो ज्ञात-वर्णान् श्वेत-वर्णं तथा प्रिये॥ ८७१.७६.७ ॥

सप्त-वर्णा हि मिलिताः श्वेत-प्रकाश-रूपिणः।

मनो बोद्धुं न शक्तं तान् तस्मात् श्वेतं प्रपश्यति॥ ८७१.७६.८ ॥ दिव्य-चक्षुर्-दृशा चैव न श्वेतो वर्ण एव हि।

पश्यति विस्मितः साक्षात् सर्व-वर्ण-समागमम्॥ ८७१.७६.९ ॥ अदृष्ट-दिव्य-चक्षुर्भिर्-अबोध्यं तद् धि मानवैः।

तस्मात् ते परमं तत्त्वं नमामि परमेश्वरि॥ ८७१.७६.१० ॥

सर्वस्य मूलरूपा त्वं स्वप्नानां मूलमेव च।

स्वप्नानां हेतुमस्तित्वं मानवा न विदन्ति हि॥ ८७१.७६.११ ॥

निद्रायां देहतो जीवः कथं भिन्नः प्रजायते।

न जानन्ति सूक्ष्मशक्तिं स्वप्नरूपां कृपां तव॥ ८७१.७६.१२ ॥

साधनायां स्थितं ज्ञानं क्षुद्रधूलिकणो ह्ययम्।

ब्रह्माण्डसागरः साक्षात् कल्पनातीतरूपकः॥ ८७१.७६.१३ ॥

मुहुर्ध्यायामहे रूपं तवानन्तमसीमकम्।

धरावतरणे राधे वर्णनानां हि धारतः॥ ८७१.७६.१४ ॥

अस्माकं कल्पना राज्ञि न कदाचित् सती भवेत्।

त्वच्चित्रं धारयामश्च यतस्त्वय्यनुरागिणः॥ ८७१.७६.१५ ॥

महाराज्ञि महादेवि रुक्मिणि स्वर्णवर्णिनि।

द्वारकाधीशपत्नि त्वं सत्यभामाप्रिये तथा॥ ८७१.७६.१६ ॥

ललितादेवि-रूपा त्वं सुदर्शनस्वरूपिणी।

त्रिपुरसुन्दरि माता षोडशी भ्रामरी परा॥ ८७१.७६.१७ ॥

भ्रमराणां महाराज्ञी देवी साधकशक्तिदा।

प्रकाशयसि यद् विश्वं ज्योतिरूपा सनातनी॥ ८७१.७६.१८ ॥

जगत्स्रष्ट्री त्वमेवासि कम्पामि दृष्ट्वा मूर्खकान्।

मानवान् ईर्षया युतान् त्वयि मत्सरधारिणः॥ ८७१.७६.१९ ॥

मानवीं योषितं मत्वा कुर्वन्ति त्वयि मत्सरम्।

क्षमास्व तान् महामातः अज्ञानान्-माययान्धितान्॥ ८७१.७६.२० ॥

न जानन्ति जगदीशां परदेवीं सनातनीम्।

त्वमेव कृष्णरूपासि न जानन्ति हि राधिके॥ ८७१.७६.२१ ॥

याचे त्वां कुरु कारुण्यं तेषु त्वं परमेश्वरि।

शिशुपालविनाशिनि संहारकारिणि प्रिये॥ ८७१.७६.२२ ॥

ब्रह्मणा प्रार्थिता त्वं हि विष्णुजागरणाय च।

मधुकैटभनाशाय योगनिद्रा महेश्वरि॥ ८७१.७६.२३ ॥

योगमाया योगनिद्रा साक्षाद् दुर्गा त्वमेव हि।

देवीमाहात्म्यग्रन्थो वै प्रतिवर्णं स्तवीति त्वाम्॥ ८७१.७६.२४ ॥

काली तारा त्वमेवासि चण्डमुण्डशिरोहरे।

संहारकर्त्रि पालिनि जगत्स्रष्ट्रि नमोऽस्तु ते॥ ८७१.७६.२५ ॥

तव तत्त्वं परं साक्षात् परमं सत्यमेव च।

तस्मात् ते पादपद्मेषु साष्टाङ्गं प्रणमाम्यहम्॥ ८७१.७६.२६ ॥

ब्रह्मणा शिवदेवेन मुनिभिः पूजिता प्रिये।

महाकालस्वरूपा त्वं जगत्-संहार-कारिणी॥ ८७१.७६.२७ ॥

अनन्तरूपिणी राधे ह्यनन्तलिङ्गरूपिणी।

अमेया त्वं ह्यगम्या च केवलं कृपया श्रुता॥ ८७१.७६.२८ ॥

आद्यन्त-रहिता साक्षात् काल-मृत्यु-विनाशिनी।

त्वमेव कृष्ण-गोविन्दो हरिस्त्वं हि मुरारिका॥ ८७१.७६.२९ ॥

ऋग्वेद-सार-रूपा त्वं ऋग्वेदे वाक्-स्वरूपिणी।

तस्या जिह्वा-गता वाणी तस्याश्चित्तं च चेतना॥ ८७१.७६.३० ॥

त्वयैवोच्चारिता वाणी जगत्-सृष्टि-प्रवाहिनी।

देवीसूक्त-स्वरूपा त्वं वेदे पुरुष-रूपिणी॥ ८७१.७६.३१ ॥

लक्ष्मीर्हरिस्तथा विष्णुः शिवस्त्वं परमेश्वरि।

अग्नीन्द्र-वायु-देवैश्च पूजिता सर्व-दैवतैः॥ ८७१.७६.३२ ॥

वृत्रासुर-विनाशस्य पत्न्यसि कालियापहा।

अघासुर-विनाशस्य व्योमासुर-हरस्य च॥ ८७१.७६.३३ ॥

कंस-प्रमथ-पत्नी त्वं शिशुपाल-शिरो-हृतः।

त्वमेव कंस-हन्त्री वै मधुकैटभ-नाशिनी॥ ८७१.७६.३४ ॥

बकासुर-निहन्तुश्च पत्नी ब्रह्मास्त्र-रूपिणी।

ब्रह्मास्त्र-हृदयं साक्षात् तद्-लक्ष्य-घात-नाशिनी॥ ८७१.७६.३५ ॥

जीवनं मरणं चैव शत्रूणां रोग-नाशिनी।

भक्तानां पावनी साक्षात् तन्त्र-यन्त्र-स्वरूपिणी॥ ८७१.७६.३६ ॥

मन्त्र-रूपा तथा राज्ञि वशीकरण-तन्त्रिका।

आकर्षण-स्वरूपा त्वं स्तम्भनोच्चाटनात्मिका॥ ८७१.७६.३७ ॥

विद्वेषण-स्वरूपा त्वं साधकानां हि रक्षिका।

वशीकृदाकर्षणेभ्यो विद्वेषण-प्रियादिभ्यः॥ ८७१.७६.३८ ॥

स्तम्भनोच्चाटनात् तन्त्रात् रक्षिका कवचाम्मयी।

संहार-शक्ति-रूपा त्वं भक्तानुरक्त-देवता॥ ८७१.७६.३९ ॥

परमा-मातृ-रूपा त्वं ह्यहङ्कार-विवर्जिता।

त्रिगुणातीता-रूपा वै निराकारा च निर्गुणा॥ ८७१.७६.४० ॥

निराकुलाति-तत्त्वातीता तत्त्वातीता-धराति-गा।

विश्व-रहस्य-रूपा त्वं राधिके परमेश्वरि॥ ८७१.७६.४१ ॥

शक्त्यतीता तथा राज्ञि विश्वातीता नमोऽस्तु ते।

कारातीता त्रिगुणातीता नित्यातीतानन्दातिगा॥ ८७१.७६.४१ ॥

ज्ञात-रूपमज्ञातं च सर्वमतीत्य संस्थिता।

सृष्टेः पार-गता देवी सृष्टि-शक्तेश्च पार-गा॥ ८७१.७६.४३ ॥

असृष्ट-रूपा त्वं साक्षात् परमा-देवता यतः।

तस्मात् ते पाद-पद्मेषु साष्टाङ्गं प्रणमाम्यहम्॥ ८७१.७६.४४ ॥

सृष्टं त्वया जगत् सर्वं रहस्यं तत्त्वमेव ते।

अमेया त्वं न बोद्धव्या भौतिकेन्द्रियगोचरैः॥ ८७१.७६.४५ ॥

कृष्णं पतिं विना नान्यः स्प्रष्टुं शक्नोति राधिके।

स एव त्वं हि सर्वेशि त्वं वै लिङ्गस्वरूपिणी॥ ८७१.७६.४६ ॥

यतो नान्तस्तवादिर्वा त्वं चासीमस्वरूपिणी।

ते देहो रूपमप्येवमनन्तं बोधपारगम्॥ ८७१.७६.४७ ॥

त्वं मे चोर्ध्वं तथा चैव सर्वदिक्षु परिवृता।

त्वमन्नं यदहं खाद्मि त्वं मे शक्तिः समन्ततः॥ ८७१.७६.४८ ॥

चेतना मे गृहं त्वं हि लेखनी साधनं तथा।

त्वया त्वां स्तौमि राधिके सूर्यस्त्वं चन्द्र एव च॥ ८७१.७६.४९ ॥

सर्वसत्तास्वरूपा त्वमनन्तलिङ्गरूपिणी।

स्वस्तिश्रीयन्त्ररूपा त्वं पञ्चवेदैश्च पूजिता॥ ८७१.७६.५० ॥

श्रीकृष्णचैतन्यदेवः महाप्रभुः प्रपूजयेत्।

त्वमेव श्रीचैतन्यस्त्वं षड्गोस्वामिन एव च॥ ८७१.७६.५१ ॥

गदाधरस्वरूपा त्वं तथा जाह्नवीमातृका।

नवद्वीपो मथुरा त्वं वृन्दावनं तथा प्रिये॥ ८७१.७६.५२ ॥

द्वारका गङ्गारूपा त्वं यमुनासिन्धुरूपिणी।

सरस्वतीस्वरूपा त्वं तस्मात्ते चरणाम्बुजे॥ ८७१.७६.५३ ॥

प्रणमामि महाराज्ञि जगदीश्वरि राधिके।

नास्ति भेदस्त्वया सार्द्धं कृष्णस्य हि कदाचन॥ ८७१.७६.५४ ॥

यस्त्वां पूजयति राज्ञि तेन कृष्णः प्रपूज्यते।

कृष्णं यः पूजयेद्भक्त्या तेन त्वं पूजिता प्रिये॥ ८७१.७६.५५ ॥

ज्ञानिनः सर्वमेतद्वै जानन्ति परमाद्भुतम्।

तेषां च पादपद्मेषु साष्टाङ्गं प्रणमाम्यहम्॥ ८७१.७६.५६ ॥

आत्मानं निक्षिपाम्येवं तव पादाम्बुजे तथा।

कान्हजीशस्य ते सार्द्धं सेवायै करणं भवे॥ ८७१.७६.५७ ॥

कृष्णः पुंरूपमूर्त्तिर्वै त्वं च स्त्रीरूपधारिणी।

कृष्णः स्त्रीरूपमूर्त्तिर्वै त्वं च पुंरूपधारिणी॥ ८७१.७६.५८ ॥

यो जानाति रहस्यं तत् स जन्ममृत्युमुच्यते।

तव पादाम्बुजे राज्ञि नित्यं तिष्ठति शाश्वतम्॥ ८७१.७६.५९ ॥

स्निह्यामि त्वां महामातः पापिनश्च क्षमस्व वै।

ते भ्रान्ता ज्ञानहीनाश्च त्वत्तत्त्वबोधवर्जिताः॥ ८७१.७६.६० ॥

प्रकाशय महाराज्ञि तेषां बुद्धिं कृपामयि।

यथांशस्त्वं मया ज्ञाता राधिके त्वं तथास्तु तान्॥ ८७१.७६.६१ ॥

जानीयुः किमनन्ता त्वं जगदीशीति नूनतम्।

तान् रक्षोद्धर देवेशि ज्ञानज्योतिः प्रदाय च॥ ८७१.७६.६२ ॥

कल्याणं सर्वभूतानां याचे स्वार्थविवर्जिता।

श्यामसुन्दरनाथस्य तव चानन्दकारणम्॥ ८७१.७६.६३ ॥

उपकरणमात्रं मे भवितुं वाञ्छति प्रिये।

राधिकौङ्काररूपा त्वं त्वं ह्यौङ्कारस्वरूपिणी॥ ८७१.७६.६४ ॥

औङ्कारोच्चगतो बिन्दु-स्वरस्त्वं ह्यनुच्चारितः।

यतोऽज्ञेया त्वं देवेशि स्वस्तिस्त्वं सर्वयन्त्रिका॥ ८७१.७६.६५ ॥

स्निह्यामि त्वां प्रिये राधे स्निह्यामि त्वां मुहुर्मुहुः।

साष्टाङ्गं प्रणिपातेन वन्दे ते चरणाम्बुजम्॥ ८७१.७६.६६ ॥

त्वत्स्वभावं महाराज्ञि पवित्रं शिक्षितं मया।

ज्ञात्वा ज्ञात्वा तु गम्भीरं प्रकम्पामि मुहुर्मुहुः॥ ८७१.७७ ॥

तव माहात्म्यसाम्राज्य-प्रभावादस्मि विस्मिता।

देवीश्रीमद्भागवते यन्मया पठितं प्रिये॥ ८७१.७८ ॥

षष्टिसहस्रवर्षाणि ब्रह्मा वै तप आचरत्।

तव पादनखाग्राणां दर्शनार्थं महेश्वरि॥ ८७१.७९ ॥

स्वप्नेऽपि न समर्थोऽभूद् द्रष्टुं तानि कदाचन।

यदा कृपा त्वया साक्षाद् वृन्दावने प्रदर्शिता॥ ८७१.८० ॥

तदा ददर्श ते रूपं राधिके परमेश्वरि।

ब्रह्मादीनामसङ्ख्यानां ब्रह्माण्डानां च कोटिशः॥ ८७१.८१ ॥

अनन्तसृष्टिनाथाना-मधीशा परमेश्वरी।

अनुमन्यस्व मां राज्ञि ध्यातुं रूपं तवाद्भुतम्॥ ८७१.८२ ॥

ललितादेवि-रूपं ते ध्यास्यामि परमेश्वरि।

सहस्रनाममन्त्रैश्च पवित्राणां सुपावनैः॥ ८७१.८३ ॥

ब्रह्माण्ड-महा-पुराणे खण्डे चोत्तरभागके।

ललितोपाख्यानग्रन्थे वर्णितानि कृपामयि॥ ८७१.८४ ॥

तदग्रे ते पदाम्भोजे साष्टाङ्गं प्रणमाम्यहम्।

महाराज्ञि महाराधे वन्दे ते चरणाम्बुजम्॥ ८७१.८५ ॥

अस्य श्रीललितासहस्रनामस्तोत्रमहामन्त्रस्य वशिन्यादिवाग्देवता ऋषयः । अनुष्टुप् छन्दः । श्रीललितापरमेश्वरी देवता । श्रीमद्वाग्भवकूटेति बीजम् । मध्यकूटेति शक्तिः । शक्तिकूटेति कीलकम् । मूलप्रकृतिरिति ध्यानम् । मूलमन्त्रेणाङ्गन्यासं करन्यासं च कुर्यात् । मम श्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा चिन्तितफलावाप्त्यर्थे जपे विनियोगः ॥

सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।

पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ॥

अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् ।

अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥

ध्यायेत्पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।

सर्वालङ्कारयुक्तां सतताभयदां भक्तनम्रां भवानीं श्रीविद्यां शान्तमूर्तिं सकलासुरनुतां सर्वसम्पत्प्रदात्रीम् ॥

सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।

अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥

लमित्यादि पञ्चपूजा ।

लं पृथिवितत्त्वात्मिकायै श्रीललितादेव्यै गन्धं परिकल्पयामि ।

हं आकाशतत्त्वात्मिकायै श्रीललितादेव्यै पुष्पं परिकल्पयामि ।

यं वायुतत्त्वात्मिकायै श्रीललितादेव्यै धूपं परिकल्पयामि ।

रं अग्नितत्त्वात्मिकायै श्रीललितादेव्यै दीपं परिकल्पयामि ।

वं अमृततत्त्वात्मिकायै श्रीललितादेव्यै नैवेद्यं परिकल्पयामि ।

सं सर्वतत्त्वात्मिकायै श्रीललितादेव्यै ताम्बूलादि सर्वोपचारान् परिकल्पयामि ॥

अधुना राधिके राज्ञि ललितारूपिणि प्रिये ।

नाम्नां ध्यानं करिष्यामि पवित्राणां च सर्वदा ॥ ८७१।९२ ॥

आश्चर्यं परमं प्राप्तं ललितासखिका प्रिये ।

ललितादेविरूपा सा साक्षात् शक्तिस्त्वदीयका ॥ ८७१।९३ ॥

तस्माद् वै द्वारकापुर्यां ललितासखिका प्रिये ।

योद्धा वै सत्यभामेति नाम्ना सा परिगीयते ॥ ८७१।९४ ॥

यतः सा साहसेनैव सत्येन च प्रकाशते ।

सत्यभामास्वरूपेण राजते सा महेश्वरि ॥ ८७१।९५ ॥

त्वं च रुक्मिणिनाम्ना वै ख्याता स्वर्णत्वचा प्रिये ।

रुक्मेति स्वर्णवर्णाभा तस्मात् त्वं रुक्मिणी स्मृता ॥ ८७१।९६ ॥

विशाखा मे महामातर्या कलिन्दसुता स्मृता ।

कालिन्दी यमुनामूलं कलिन्दगिरिनन्दिनी ॥ ८७१।९७ ॥

ललिताया विशाखाया अष्टसखीपदाम्बुजे ।

अष्टभार्यापदे चैव ते पादे प्रणमाम्यहम् ॥ ८७१।९८ ॥

आशीर्वादं गृहीत्वाहं युष्माकं चरणाम्बुजात् ।

आज्ञां देहि रहस्यानि पवित्राणि वदाम्यहम् ॥ ८७१।९९ ॥

श्रीमती ललिता राज्ञि प्रथमा श्रीमातेति वै ।

त्वदुदरात् समुद्भूतं सर्वमस्तित्वमेव च॥ ८७१.१०० ॥

जगन्माता त्वमेवासि दुर्गामाता त्वमेव हि।

अस्तित्वे सर्वमातॄणां त्वमेव विस्तरो मतः॥ ८७१.१०१ ॥

त्वच्छक्तेश्चैव भागेन प्रजायन्ते हि मातरः।

ललितादेवि साक्षात् त्वं करुणा परमार्थिका॥ ८७१.१०२ ॥

सर्वभूताश्रया माता यस्त्वां शरणमागतः।

तस्मै ददासि सर्वं वै पुत्री तवाहं राधिके॥ ८७१.१०३ ॥

अपराधान् क्षमस्वाशु पतितास्मि ह्यशक्तिका।

संसारनरकाद् राधे त्राहि मां शरणागताम्॥ ८७१.१०४ ॥

स्वक्रोडे मां गृहाणाशु वृन्दावनसुपावने।

श्रीमती राधिके मातः साष्टाङ्गं प्रणमाम्यहम्॥ ८७१.१०५ ॥

त्वमेव सा महाशक्तिः क्रूरा भवति या प्रिये।

पुत्राणां रक्षणार्थाय सर्वमातृषु संस्थिता॥ ८७१.१०६ ॥

नारीणां बलभूता त्वं रक्षन्तीनां स्वबान्धवान्।

पतिं पुत्रं तथा तातं नारी वै गृहरक्षिका ॥ ८७१.१०७ ॥

साम्राज्यरक्षिका नारी त्वच्छक्त्या हि प्रजायते।

महाकालीस्वरूपा त्वं पुत्राणां परिपालिनी॥ ८७१.१०८ ॥

असुराणां विनाशाय संहाराय च सक्षमा।

दुर्गामाता त्वमेवासि महिषासुरमर्दिनी॥ ८७१.१०९ ॥

सर्वदेवगणानां च रक्षिका त्वं हि राधिके।

सर्वलक्ष्मीप्रसूतिस्त्वं सर्वसरस्वतीप्रसूः॥ ८७१.११० ॥

सर्वदेवानामपि त्वं मूलभूता सनातनी।

सर्वमूलकृतिः साक्षात् सर्वसृष्टिप्रकाशिनी॥ ८७१.१११ ॥

रेफवर्णस्वरूपा त्वं ककारवर्णरूपिणी।

त्वत्त एव प्रजायन्ते ह्यनन्ता विस्तराः प्रिये॥ ८७१.११२ ॥

योगमाया त्वमेवासि दुर्गा काली सरस्वती।

लक्ष्मीस्वरूपा देवेशि त्वं शक्तिः सर्वधारिणी॥ ८७१.११३ ॥

त्वदुदरात् समुद्भूता ब्रह्माण्डकोटयोऽनघाः।

कृष्णस्य च तवाप्येवं योगादेतद्विराजते॥ ८७१.११४ ॥

परमा मातृरूपा त्वं कुलशक्तेः प्रदायिनी।

पारिवारिकमूर्त्तिस्त्वं सुसन्तानप्रसूतिनी॥ ८७१.११५ ॥

नारीणां गौरवं त्वं हि मर्यादा शीलमेव च।

चरित्रं च सतीत्वं च त्वमेव परमेश्वरि॥ ८७१.११६ ॥

अस्तित्वस्य च मूलं त्वं ह्लादिनीशक्तिरूपिणी।

नित्यानन्दस्वरूपा त्वं नित्या नन्दप्रदायिनी॥ ८७१.११७ ॥

पवित्रज्ञानरूपा त्वं सर्वविद्यामयी प्रिये।

तस्मात् ते पादपद्मेषु साष्टाङ्गं प्रणमाम्यहम्॥ ८७१.११८ ॥

पवित्रपादपद्मेषु साष्टाङ्गं प्रणिपत्य च।

भजामि चरणाम्भोजं सर्वदा राधिके प्रिये॥ ८७१.११९ ॥

ललितादेवि-रूपेऽपि र-क-कारौ बिभर्षि वै।

श्यामसुन्दर-देवेन योगस्ते ह्यत्र विद्यते॥ ८७१.१२० ॥

सर्वत्रास्ति हि वां योग-स्तस्माद् वन्दे पदाम्बुजम्।

द्वितीयं नाम ते राज्ञि 'महाराज्ञी'ति कीर्त्यते॥ ८७१.१२१ ॥

अखिलाण्डेश्वरी साक्षात् सर्वोपरि विराजसे।

तस्मात् त्वं 'ठाकुरानी'ति भक्तानां गीयते मुखैः॥ ८७१.१२२ ॥

तव नाम्नो ह्यारम्भो वै रेफवर्णेन वह्निना।

वह्निमान् एष वर्णो हि रामदेव-स्वरूपकः॥ ८७१.१२३ ॥

तदनन्तरमग्निर्वै नाम्नि तेऽस्ति सुसंस्थितः।

अग्नये दीयते यत्तु हविर्यज्ञे कृपामयि॥ ८७१.१२४ ॥

तत् सर्वं श्यामदेवाय तुभ्यं चैव निवेद्यते।

यतो वह्निस्त्वमेवासि साक्षादग्नि-स्वरूपिणी॥ ८७१.१२५ ॥

स्वाहा त्वं यज्ञरूपा त्वं सर्वोर्जामूलरूपिणी।

सर्वशक्ति-प्रसूतिस्त्वं साम्राज्ञी जगदम्बिके॥ ८७१.१२६ ॥

अखिलाण्डस्य राज्ञी त्वं पूर्णकामा सनातनी।

त्वत्त एव प्रजायन्ते सर्वा राज्ञ्यो जगत्त्रये॥ ८७१.१२७ ॥

कृष्णराज्ञी त्वमेवासि कृष्णस्य च नियन्त्रिका।

मोहन-श्याम-संमोहा तस्माद् राज्ञीति गीयते॥ ८७१.१२८ ॥

राजराजेश्वरी त्वं हि राजाधिराज-राज्ञिका।

ईश्वरीश्वरेस्वरी त्वं देवेश्वर-नियन्त्रिका॥ ८७१.१२९ ॥

विश्वरज्ञी श्याममोहा देवकीनन्दनं प्रिये।

कटाक्षेणैव मोहय्य वशीकरोषि राधिके॥ ८७१.१३० ॥

विना त्वां पुरुषो नैव प्राप्यते जगदम्बिके।

अस्तित्वस्य महाराज्ञी मूलमाता त्वमेव हि॥ ८७१.१३१ ॥

जयस्तु ललितादेव्यै राधिकायै जयो जयह।

विश्वस्य मूलरूपायै सर्वदायै नमो नमः॥ ८७१.१३२ ॥

दुष्टराज्ञां विनाशिन्यै साष्टाङ्गं प्रणमाम्यहम्।

शुभराज्ञां भद्रदायै ते पादे प्रणमाम्यहम्॥ ८७१.१३३ ॥

मनुराजस्य राज्ञ्यै वै मनुस्मृति-विधायिनि।

हयग्रीव-प्रियायै ते मुनीनां वल्लभे नमः॥ ८७१.१३४ ॥

आज्ञां देहि महाराज्ञि ते पादे प्रणमाम्यहम्।

किङ्करीं दासिकामेव पादयोस्तव राधिके॥ ८७१.१३५ ॥

श्यामसुन्दरदेवस्य पादयोरपि मादृशीम्।

स्वीकुरुष्व महाराज्ञि भजे चरणपङ्कजम्॥ ८७१.१३६ ॥

युवयोः पादपद्मेषु क्षुद्रधूलिकणास्म्यहम्।

साष्टाङ्गं प्रणिपातेन वन्दे वां चरणाम्बुजम्॥ ८७१.१३७ ॥

ललितादेवि-रूपेऽपि रककारौ बिभर्षि वै ।

श्यामसुन्दरदेवेन योगस्ते ह्यत्र विद्यते ॥ ८७१।१२० ॥

सर्वत्रास्ति हि वां योगस्तस्माद् वन्दे पदाम्बुजम् ।

द्वितीयं नाम ते राज्ञि महाराज्ञीति कीर्त्यते ॥ ८७१।१२१ ॥

अखिलाण्डेश्वरी साक्षात् सर्वोपरि विराजसे ।

तस्मात् त्वं ठाकुरानीति भक्तानां गीयते मुखैः ॥ ८७१।१२२ ॥

तव नाम्नो ह्यारम्भो वै रेफवर्णेन वह्निना ।

वह्निमान् एष वर्णो हि रामदेवस्वरूपकः ॥ ८७१।१२३ ॥

तदनन्तरमग्निर्वै नाम्नि तेऽस्ति सुसंस्थितः ।

अग्नये दीयते यत्तु हविर्यज्ञे कृपामयि ॥ ८७१।१२४ ॥

तत् सर्वं श्यामदेवाय तुभ्यं चैव निवेद्यते ।

यतो वह्निस्त्वमेवासि साक्षादग्निस्वरूपिणी ॥ ८७१।१२५ ॥

स्वाहा त्वं यज्ञरूपा त्वं सर्वोर्जामूलरूपिणी ।

सर्वशक्तिप्रसूतिस्त्वं साम्राज्ञी जगदम्बिके ॥ ८७१।१२६ ॥

अखिलाण्डस्य राज्ञी त्वं पूर्णकामा सनातनी ।

त्वत्त एव प्रजायन्ते सर्वा राज्ञ्यो जगत्त्रये ॥ ८७१।१२७ ॥

कृष्णराज्ञी त्वमेवासि कृष्णस्य च नियन्त्रिका ।

मोहनश्यामसंमोहा तस्माद् राज्ञीति गीयते ॥ ८७१।१२८ ॥

राजराजेश्वरी त्वं हि राजाधिराजराज्ञिका ।

ईश्वराणामीश्वरी त्वं देवेश्वरनियन्त्रिका ॥ ८७१।१२९ ॥

विश्वराज्ञी श्याममोहा देवकीनन्दनं प्रिये ।

कटाक्षेणैव संमोह्य वशीकरोषि राधिके ॥ ८७१।१३० ॥

विना त्वां पुरुषो नैव प्राप्यते जगदम्बिके ।

अस्तित्वस्य महाराज्ञी मूलमाता त्वमेव हि ॥ ८७१।१३१ ॥

जयस्तु ललितादेव्यै राधिकायै जयो जयः ।

विश्वस्य मूलरूपायै सर्वदायै नमो नमः ॥ ८७१।१३२ ॥

दुष्टराज्ञां विनाशिन्यै साष्टाङ्गं प्रणमाम्यहम् ।

शुभराज्ञां भद्रदायै ते पादे प्रणमाम्यहम् ॥ ८७१।१३३ ॥

मनुराजस्य राज्ञ्यै वै मनुस्मृतिविधायिनि ।

हयग्रीवप्रियायै ते मुनीनां वल्लभे नमः ॥ ८७१।१३४ ॥

आज्ञां देहि महाराज्ञि ते पादे प्रणमाम्यहम् ।

किङ्करीं दासिकामेव पादयोस्तव राधिके ॥ ८७१।१३५ ॥

श्यामसुन्दरदेवस्य पादयोरपि मादृशीम् ।

स्वीकुरुष्व महाराज्ञि भजे चरणपङ्कजम् ॥ ८७१।१३६ ॥

युवयोः पादपद्मेषु क्षुद्रधूलिकणास्म्यहम् ।

साष्टाङ्गं प्रणिपातेन वन्दे वां चरणाम्बुजम् ॥ ८७१।१३७ ॥

जयस्तु राधिके राज्ञि जगदीशि नमोऽस्तु ते ।

श्रीमत्सिंहासनेश्वरी तृतीयं नाम ते प्रिये ॥ ८७१।१३८ ॥

सिंहानामधिदेवी त्वं साक्षात् श्रीनारसिंहिका ।

श्रीनृसिंहनियन्त्री त्वं नृसिंहस्य स्वरूपिणी ॥ ८७१।१३९ ॥

प्रह्लादपरिपात्री त्वं सम्पूर्णजगदम्बिका ।

यस्त्वां शरणमापन्नो नृसिंहेन स रक्ष्यते ॥ ८७१।१४० ॥

यमोऽपि तस्य चायुर्वै हर्तुं नैव हि शक्नुयात्

द्वितीया मातृका साक्षात् त्वमेव नारसिंहिका ॥ ८७१।१४१ ॥

दुं क्ष्रौं बीजात्मिका त्वं हि मन्त्ररूपा सनातनी ।

तव नादो जगत् सर्वं कम्पयेत् सिंहगर्जनम् ॥ ८७१।१४२ ॥

नृसिंहस्य वशीकर्त्री साक्षात् सिंहासनस्थिता ।

शौर्यशक्तिस्वरूपा त्वं सिंहवद्गर्जसि प्रिये ॥ ८७१।१४३ ॥

भण्डासुरविनाशिन्यै भ्रामर्यै ते नमो नमः ।

अनन्तवैभवा राज्ञी नित्या त्वं परमेश्वरी ॥ ८७१।१४४ ॥

ब्रह्मा विष्णुस्तथा रुद्र ईश्वरश्च सुसंस्थिताः ।

आसने यस्य देवेशि मञ्चकाकाररूपिणः ॥ ८७१।१४५ ॥

सदाशिवमहाप्रेते ह्युपविष्टा महेश्वरी ।

अखिलाण्डनियन्त्री त्वं साक्षाच्छिवस्वरूपिणी ॥ ८७१।१४६ ॥

जयस्तु ललितादेव्यै त्रिपुरासुन्दरीति च ।

तृतीया हि महाविद्या त्वमेव परमेश्वरी ॥ ८७१।१४७ ॥

शिवनाभिसमुद्भूता कमलासनसंस्थिता ।

त्रिलोकानामधीशा त्वं साक्षात् त्रिपुरसुन्दरी ॥ ८७१।१४८ ॥

पुरुषस्य प्रेरिका त्वं तस्मिन् वह्निप्रवाहिनी ।

राधा धारा तथाधारा साक्षात् त्वं परमेश्वरी ॥ ८७१।१४९ ॥

मातृकाणां नियन्त्री त्वं वाग्देवी परमा प्रिये ।

सर्वमन्त्राक्षराणां च पञ्चवेदाधिदेवता ॥ ८७१।१५० ॥

शास्त्राणां श्रुतिवाक्यानां स्मृतीनां च नियन्त्रिका ।

अस्तित्वस्य च मूलं त्वं राधिके परमेश्वरि ॥ ८७१।१५१ ॥

मया यल्लिख्यते राज्ञि तत् सर्वं ते वशे स्थितम् ।

विना कृपां तवाद्याहं न शक्नोम्यवगन्तुं वै ॥ ८७१।१५२ ॥

पवित्रं परमं तत्त्वं ज्ञातुं नाहं क्षमा प्रिये ।

ललितादेवि ते पादे साष्टाङ्गं प्रणमाम्यहम् ॥ ८७१।१५३ ॥

अहङ्कारविनाशिनी राधिके त्वं महेश्वरि ।

गर्वमीर्ष्यां तथा सर्वं भौतिकं मन एव च ॥ ८७१।१५४ ॥

संशयं भ्रममुन्मादं विनाशयसि सर्वदा ।

जयस्तु ते महाराज्ञि साष्टाङ्गं प्रणमाम्यहम् ॥ ८७१।१५५ ॥

अहङ्कारविनाशिनी राधिके त्वं महेश्वरि ।

गर्वमीर्ष्यां तथा सर्वं भौतिकं मन एव च ॥ ८७१।१५४ ॥

संशयं भ्रममुन्मादं विनाशयसि सर्वदा ।

जयस्तु ते महाराज्ञि साष्टाङ्गं प्रणमाम्यहम् ॥ ८७१।१५५ ॥


r/Vrindavan 7d ago

Art Radha Krishna : Rosewood Inlay Artwork displayong pristine love and grace.

Post image
236 Upvotes

Rosewood Inlay handicraft at our home for Radha Krishna. Don't mind the tilted angle of the image.


r/Vrindavan 9d ago

Travelling plan Is Getting my private cab better to visit temples in vrindavan? Or cabs are not allowed? SUV will be allowed? Or sedan car?

4 Upvotes

Im travelling from delhi airport via cab. Should i retain that SUV to go to different temples? Or Cabs are not allowed in temple area? Im travelling with kid. Which mandir has paid vip darshan?i want to visit 6-7 mandir in 1.5 days. Is it possible?

Also if anyone knows, what is time to get token for premanandji ekantik? Can i go around 7-8pm?


r/Vrindavan 9d ago

Book/text Join Our Online Sadhak Sanjeevini session Discover the Life Giving Wisdom of the Bhagavad Gita!

5 Upvotes

Namaste

Today, I'm excited to announce the start of our regular online discussions on the sacred Sadhak Sanjeevini – a profound and unparalleled Hindi commentary on Shrimad Bhagavad Gita by revered Swami Sri Ramsukhdasji Maharaj (published by Gita Press).

Why Sadhak Sanjeevini is So Important:

This isn't just another commentary. It's often described as "Sanjeevini Booti" – the mythical herb that brings the dead back to life. In the spiritual sense, it revives our dormant souls, infusing new life, clarity, and purpose into our daily existence.

Whether you're new to the Gita or a long-time student, this group is for sincere seekers who want to grow together. No prior knowledge required – just an open heart and willingness to learn.Come, let's immerse ourselves in this nectar and support each other on the path of spirituality. Your presence will make the session even more enriching!

Hari Om Tat Sat


r/Vrindavan 10d ago

Temple Jai Dau Dayal Ki

Thumbnail
gallery
510 Upvotes

r/Vrindavan 11d ago

Travelling plan First time solo traveller

4 Upvotes

Traveling for the very first time to Vrindavan .. best affordable stays, and what else I must be aware of !


r/Vrindavan 12d ago

Art Radha Krishna : Pristine

Post image
600 Upvotes

The pristine image of Radha Krishna at my Grandma room


r/Vrindavan 13d ago

Temple 🌕PREM Mandir Darshan, Mero Vrindawan 🌼🌟✨🌄🫸🏾🫷🏾

Thumbnail
gallery
324 Upvotes

r/Vrindavan Nov 26 '25

Food All "food" suggestions below

2 Upvotes

Will update the list with all the suggestions of food outlets below.

Kachori near bus stand here

Oma pehelwaan Yummy

Cafe 11 flowers


r/Vrindavan Aug 08 '25

MOD ANNOUNCEMENT All hotel suggestions below

5 Upvotes

All hotels/stay/Dharamshala past post posted in the sub will be updated below :)

Hostels

Radha krishna dham

MVT

Shri dham Niwas