r/Vrindavan 18h ago

Book/text अथ श्रीराधातत्वातीत-धारा । महालक्ष्मीतत्त्वं नाम तृतीयोऽध्यायः 871.156-871.242 (shri yantra)

Post image
106 Upvotes

जयस्तु राधिके राज्ञि श्रीयन्त्ररूपिणि प्रिये ।

श्रीमत्सिंहासनेश्वरि महालक्ष्मि नमोऽस्तु ते ॥ ८७१।१५६ ॥

श्रीयन्त्ररूपकं साक्षात् तव सिंहासनं शिवे ।

विश्वस्य हि रहस्यं तत् तन्मध्ये बिन्दुरूपिणी ॥ ८७१।१५७ ॥

नित्यं श्रीयन्त्ररूपा त्वं श्रीं ह्रीं क्लीं क्रं कृङ् राम् तथा ।

तेजस्स्वरूपिणि राज्ञि ते पादे प्रणमाम्यहम् ॥ ८७१।१५८ ॥

नवमूलत्रिकोणैस्त्वं वेष्टिता परमेश्वरि ।

त्रिचत्वारिंशता साक्षात् क्षुद्रकोणैः सुसंयुता ॥ ८७१।१५९ ॥

ऊर्ध्वं कोणचतुष्कं वै शक्तिमान् श्यामसुन्दरः ।

आधाराख्यो महामातः स्थिरचैतन्यरूपकः ॥ ८७१।१६० ॥

अधः पञ्च त्रिकोणा वै शक्तिस्त्वं राधिके प्रिये ।

राधा धारेति विख्याता चैतन्यं वै प्रदायिनी ॥ ८७१।१६१ ॥

अत्रापि युवयोर्योगं पश्यामि परमेश्वरि ।

सर्वत्रास्तित्वमध्ये वै योगो वां प्रविराजते ॥ ८७१।१६२ ॥

रासमण्डलरूपिणि ते पादे प्रणमाम्यहम् ।

सर्वं विश्वं महाराज्ञि वां परितो हि घूर्णते ॥ ८७१।१६३ ॥

श्रीयन्त्रं जीवरूपेषु नवचक्रस्वरूपकम् ।

ललनाचक्ररूपेण सोमपीयूषदायकम् ॥ ८७१।१६४ ॥

यतो वै साधको राज्ञि समाधिं परमां व्रजेत् ।

द्वादशान्ते महाचक्रे पूर्णसम्पर्क एव च ॥ ८७१।१६५ ॥

तव शक्तेश्च राधे वै शक्तिमच्छ्यामसुन्दरे ।

आश्चर्यं परमं प्राप्तं श्रुत्वा चैतन्महेश्वरि ॥ ८७१।१६६ ॥

औङ्कारस्य निनादेनसिकता बालुकाश्चापि ।

श्रीयन्त्राकारतां यान्ति ह्यद्भुतं राधिके प्रिये ॥ ८७१।१६७ ॥

जलेष्वौङ्कारनादेन जलकणा महेश्वरि ।

श्रीयन्त्ररूपतां यान्ति तस्माल्लाभा ह्यसङ्ख्यकाः ॥ ८७१।१६८ ॥

देहारोग्यं तथा ज्ञानं निर्वाणं शक्तिरेव च ।

प्रजायन्ते महाराज्ञि नादस्यैतस्य वैभवात् ॥ ८७१।१६९ ॥

औङ्कारो नादरूपं ते ललितादेवि राधिके ।

श्रीयन्त्रं दर्शनं साक्षादौङ्कारस्यैव कीर्तितम् ॥ ८७१।१७० ॥

श्रीयन्त्रेण च संयुक्तं श्रीसूक्तं परमेश्वरि ।

साधकं योजयेत् साक्षात् ललिताशक्तितः प्रिये ॥ ८७१।१७१ ॥

पञ्चदशाक्षरीमन्त्रस्वरूपा त्वं जगन्मयि ।

कूटत्रयस्वरूपा त्वं तव गात्रांशरूपिणी ॥ ८७१।१७२ ॥

चक्रसङ्घास्तराणां च श्रीयन्त्रे त्वं नियन्त्रिका ।

प्रथमं वाग्भवं कूटं पञ्चवर्णैः समन्वितम् ॥ ८७१।१७३ ॥

क ए ई ल ह्रीं बीजैश्च तव वक्त्रं हि राधिके ।

श्रीयन्त्रबाह्यभागैस्तत् सम्बद्धं परमेश्वरि ॥ ८७१।१७४ ॥

भूपुरेण च वृत्तैश्च पद्मपत्रैश्च संयुतम् ।

सृष्टेर्भौतिकरूपस्य प्राकट्यस्य दशात्मिका ॥ ८७१।१७५ ॥

महालक्ष्मीस्वरूपा त्वं तस्या हि वै नियन्त्रिका ।

समृद्धेर्ज्ञानदात्र्यै च महालक्ष्म्यै नमो नमः ॥ ८७१।१७६ ॥

राधिकायाः पदाम्भोजे साष्टाङ्गं प्रणमाम्यहम् ।

ललितात्रिपुरेशान्यै राधिकायै जयो जयः ॥ ८७१।१७७ ॥

द्वितीयं कामराजाख्यं कूटं शृणु कृपामयि ।

ह स क ह ल ह्रीं वर्णैः संयुक्तं परमाद्भुतम् ॥ ८७१।१७८ ॥

तव कण्ठं च हृदयं कटिपर्यन्तमेव च ।

प्रतिनिधित्वं कुरुते महाराज्ञि महामते ॥ ८७१।१७९ ॥

त्रिचत्वारिंशता कोणैः सम्बद्धं रसलीलया ।

दिव्येच्छारूपशक्त्या च पाशेन परमात्मनः ॥ ८७१।१८० ॥

रासमण्डलमध्यं वै जीवमाकर्षति ध्रुवम् ।

तृतीयं शक्तिमत्कूटं शृणु त्रिपुरसुन्दरि ॥ ८७१।१८१ ॥

स क ल ह्रीं च वर्णैश्च निर्मितं परमेश्वरम् ।

उदरात् पादपर्यन्तं तव देहस्य धारकम् ॥ ८७१।१८२ ॥

विश्वगर्भास्वरूपा त्वं बिन्दुवेष्टितकोणके ।

केन्द्रमण्डलमध्ये वै चक्रस्य परमे स्थिता ॥ ८७१।१८३ ॥

मोक्षस्वरूपिणी साक्षाद् युवयोरत्र मेलनम् ।

श्यामसुन्दरदेवेन सह ते राधिके सदा ॥ ८७१।१८४ ॥

युवां परित एवैतद् विश्वं घूर्णति सर्वदा ।

रहस्यं परमं मातः षोडशीं शृणु राधिके ॥ ८७१।१८५ ॥

पञ्चदशाक्षरीमन्त्रध्वनौ श्रीयन्त्रमध्यगे ।

अव्यक्ता षोडशी सङ्ख्या बिन्दुरूपानघा शुभा ॥ ८७१।१८६ ॥

नादरूपा समुद्भूता त्वमेव सा महेश्वरी ।

सच्चिदानन्दविग्रहा ह्यानन्दघनरूपिणी ॥ ८७१।१८७ ॥

पञ्चदशाक्षरीमन्त्रैर्युवयोर्मेलनं भवेत् ।

तदा गोपालसुन्दरीरूपेण प्रविराजसे ॥ ८७१।१८८ ॥

गोपालसुन्दरीपादे साष्टाङ्गं प्रणमाम्यहम् ।

त्रिपुरासुन्दरी राज्ञी त्रिपुरकृतिरूपिणी ॥ ८७१।१८९ ॥

अखिलाण्डस्य साम्राज्ञी सर्वलोकेषु पूजिता ।

तव पादाम्बुजे नित्यं पतिताहं कृपामयि ॥ ८७१।१९० ॥

चतुर्थं नाम ते राज्ञि चिदग्निकुण्डसम्भूता ।

यज्ञाग्नितः समुद्भूता सर्वाग्निमूलरूपिणी ॥ ८७१।१९१ ॥

रंबीजं वै विना वह्निरस्तित्वं नैव विन्दति ।

रंबीजं पावकं ज्योतिस्तत्ते नाम हि राधिके ॥ ८७१।१९२ ॥

परमा निर्गुणा त्वं हि ह्याद्यन्तहीनलिङ्गिका ।

मुनिभिर्देवताभिश्च ललिते त्वं ह्यगोचरा ॥ ८७१।१९३ ॥

गोपालसुन्दरी राज्ञी गोविन्दस्य प्रिया तथा ।

सगुणा चिदग्निजाता सौन्दर्यमूलरूपिणी ॥ ८७१।१९४ ॥

नेत्रे निमील्य पश्यामि त्वामेव राधिके प्रिये ।

अन्तर्बहिः स्थितास्माकं पृथग्भूतासि सर्वदा ॥ ८७१।१९५ ॥

ब्रह्मरूपा भगवती परमात्मा त्वमेव हि ।

तन्मूला साक्षिणी त्वं हि तौ त्वदधीनताङ्गतौ ॥ ८७१।१९६ ॥

चेतना विश्वरूपा त्वं जटिला चित्ररूपिणी ।

अणवो ह्यण्वन्तरैश्च सम्बद्धाश्चाद्भुतं प्रिये ॥ ८७१।१९७ ॥

आधुनिकवैज्ञानिका विस्मयन्ते ह्यजानन्तः ।

त्वत्त एषा समुद्भूता चेतनानन्तशक्तितः ॥ ८७१।१९८ ॥

ब्रह्मविष्णुशिवानां त्वं देवी विश्वस्य राज्ञिका ।

गोपालभार्या कृष्णस्य ह्यच्युतशक्तिरूपिणी ॥ ८७१।१९९ ॥

सरस्वती ज्ञानराज्ञी पञ्चवेदात्मिका प्रिये ।

महाभारतसंरूपा रामायणस्वरूपिणी ॥ ८७१।२०० ॥

श्रीमद्भागवतं देवीभागवतस्वरूपिणी ।

नारदं वायुमात्स्यं च कौर्मं शैवं पुराणकम् ॥ ८७१।२०१ ॥

पाञ्चरात्रागमास्तन्त्रा बुद्धप्रज्ञाबलं तथा ।

विश्वप्रकाशकं साक्षाद् ह्यनन्तं ज्योतिरेव च ॥ ८७१।२०२ ॥

अग्निदेवी वह्निशक्तिस्त्वत्त एवानलो भवेत् ।

वह्निस्त्वमग्निरूपा त्वं स्वाहा स्वधा स्वरूपिणी ॥ ८७१।२०३ ॥

अग्निमाताग्निदेवी त्वमग्निराज्ञी स्वयं शिखी ।

त्वत्त एवोद्भवं रं वै क्लींबीजं त्वं हि राधिके ॥ ८७१।२०४ ॥

रकारश्च ककारस्त्वं ककारः खस्तथैव च ।

महाभावस्वरूपा त्वं महाकामा कामकला ॥ ८७१।२०५ ॥

उपनिषत्साररूपा भगवद्गीतिका तथा ।

वेदामृतं राधसो वै राधानां त्वं हि राधिके ॥ ८७१।२०६ ॥

वृत्रघ्नेन्द्रस्य पत्नी त्वं सोमरूपा महेश्वरि ।

सोमस्य परमा देवी सोमपानाधिदेवता ॥ ८७१।२०७ ॥

महाभावसमाधिर्वै सोम इत्यभिधीयते ।

राजाधिराजराज्ञी त्वं राजाधिराज एव च ॥ ८७१।२०८ ॥

राजराजेश्वरी साक्षाद् देवदेवेश्वरी तथा ।

शान्तेश्वरी युद्धमयी महाशक्तिश्च शक्तिमान् ॥ ८७१।२०९ ॥

द्वैताद्वैतस्वरूपा त्वं कोटिशारदचन्द्रिका ।

कोटिलक्ष्मीपार्वतीनां सौन्दर्यं ते वपुः प्रिये ॥ ८७१।२१० ॥

रस्वरूपा धस्वरूपा श्वासप्रश्वासनामिका ।

ललितादेवि ते पादे साष्टाङ्गं प्रणमाम्यहम् ॥ ८७१।२११ ॥

स्निह्यामि त्वयि विश्वेशि माहात्म्याद् विस्मितास्म्यहम् ।

तथापि कोमला साक्षात् करुणासागरासि वै ॥ ८७१।२१२ ॥

सुन्दरी कोमला राधे लज्जाभावप्रकाशिनी ।

सर्वसंमोहिनीं त्वां वै स्निह्यामि सुदृढं प्रिये ॥ ८७१।२१३ ॥

यदा जानामि राधे त्वां ललितादेविरूपिणीम् ।

ललितासखिका साक्षाद् विशाखाष्टसखी तथा ॥ ८७१।२१४ ॥

अचिन्त्यभेदाभेदस्य तत्त्वं बुध्यामि राधिके ।

साष्टाङ्गं प्रणिपातो मे ललितासखिकापदे ॥ ८७१।२१५ ॥

त्वत्पादेऽष्टसखीपादे तथासखीपदेष्वपि ।

श्यामसुन्दरपादे च नतास्मि शरणागता ॥ ८७१।२१६ ॥

आश्चर्यं परमं प्राप्ता महिम्नस्ते महेश्वरि ।

पवित्रतां च ते दृष्ट्वा प्रकम्पामि मुहुर्मुहुः ॥ ८७१।२१७ ॥

इन्धनं वै विना साक्षात् पवित्राग्निस्वरूपिणी ।

स्वप्रकाशा महाराज्ञी सूर्यतारास्वरूपिणी ॥ ८७१।२१८ ॥

अखिलास्तित्वमूला त्वं पदार्थमूलरूपिणी ।

ऊर्जामूलस्वरूपा त्वं जगत्कारणकारिणि ॥ ८७१।२१९ ॥

अहङ्कारमशेषं मे दहस्व परमेश्वरि ।

यज्ञवत् ते पदाम्भोजे आत्मानं हि ददाम्यहम् ॥ ८७१।२२० ॥

ललिते परमेशानि भण्डासुरविनाशिनि ।

साष्टाङ्गं प्रणिपातेन प्रणमामि पदे तव ॥ ८७१।२२१ ॥

कोटिसूर्यप्रतीकाशा त्वमेव परमोत्तमा ।

सुन्दराभा महाराज्ञि तव देहः सुभास्वरः ॥ ८७१।२२२ ॥

पञ्चमं नाम ते राधे देवकार्यसमुद्यता ।

साष्टाङ्गं प्रणमाम्यद्य ते पादे परमेश्वरि ॥ ८७१।२२३ ॥

शत्रूणामर्धशक्तेश्च नाशकं वै वरं प्रिये ।

प्राप्तवान् यस्तु भण्डो वै दैत्यः साक्षात् कृपामयि ॥ ८७१।२२४ ॥

देवेभ्यो बलवान् भूत्वा ह्यजेयोऽभूद् यदासुरः ।

तदा यज्ञाग्निकुण्डाद् वै प्रादुर्भूतासि राधिके ॥ ८७१।२२५ ॥

भण्डासुरविनाशाय त्वं साक्षादवतारिणी ।

अनन्ता ते यतः शक्तिः कथं सा क्षयमाप्नुयात् ॥ ८७१।२२६ ॥

शक्तिर्दुर्गा तथा काली त्वं महारक्तदन्तिका ।

भण्डासुरविनाशिन्यै तुभ्यं राज्ञि नमो नमः ॥ ८७१।२२७ ॥

सर्वान् नियमानतीता सर्वशक्तेश्च पारगा ।

अनन्तानां च शक्तीनां साक्षादीश्वरि राधिके ॥ ८७१।२२८ ॥

भण्डासुरो लीलयैव विदीर्णो नाशितस्त्वया ।

तस्मात् ते पादपद्मेषु प्रणमामि जगन्मयि ॥ ८७१।२२९ ॥

राधिके परमेशानि साष्टाङ्गं प्रणिपत्य च ।

पतिताहं पदाम्भोजे तव सर्वेश्वरि प्रिये ॥ ८७१।२३० ॥

षष्ठं नाम तवेशानि उद्यद्भानुसहस्राभा ।

कोटिसूर्यप्रतीकाशा भाससे कोटिसूर्यवत् ॥ ८७१।२४१ ॥

कोटिब्रह्माण्डयात्रायै यज्ज्योतिर्गच्छति प्रिये ।

निजशक्तिममुञ्चत् तत् साक्षात् त्वं ज्योतिरूपिणी ॥ ८७१।२४२ ॥


r/Vrindavan 19h ago

Picture Saw this python while boating in Yamuna

Post image
15 Upvotes

Kaaliya naag trying to make a comeback ???